१२

उपरीव हरति उर्वन्तरिक्षं वीहि इति १
स्वाहाग्नये वैश्वानराय इति मध्यदेशे नियच्छति २
वाताय त्वा इत्युद्गृह्यापरेणाहवनीयं बर्हिष्युपसादयति आयुर्मे यच्छ इति ३
मध्येऽग्नेः समिधमादधाति एषा ते अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताँ स्वाहा इति ४
आदीप्तायाँ समिधि जुहोति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा इति प्रातः ५
अपि वा अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहा इति प्रातः ६
इषे त्वा इत्यवाचीनँ सायं लेपमवमार्ष्टि । ऊर्जे त्वा इत्यूर्ध्वं प्रातः ७
वर्चो मे यच्छ इत्युपसाद्य बर्हिषि लेपं निमार्ष्टि ओषधीभ्यस्त्वौषधीर्जिन्व इति ८ गार्हपत्यं प्रतीक्षते अग्ने गृहपते मा मा सन्ताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिः इति ९
अतिहाय पूर्वामाहुतिं तूष्णीमुत्तराँ समिधि जुहोति । प्रजापतये स्वाहा इति वा १०
बहु हुत्वा भूयो निमार्ष्टि ११ १२