११

यजमानमामन्त्रयते ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति सायम् । ओमुन्नयामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति प्रातः १ हविर्देवानामसि मृत्योर्मेऽभयँ स्वस्ति मेऽस्त्वभयं मेऽस्तु इत्युपाँ शूक्त्वा यजमानः ओमुन्नय हव्यं देवेभ्यः पाप्मनो माम् इत्युच्चैः प्रतिगृणाति २
यदि यजमानो नानुष्यात् स्वय-मेवाध्वर्युः प्रतिगृणीयात् ३
चतुरः स्रुवान् पूर्णानुन्नयत्यनूचो वा । अग्नये च त्वा पृथिव्यै चोन्नयामि इति प्रथमँ स्रुवमुन्नयति । अद्भ्यश्च त्वौषधी-भ्यश्चोन्नयामि इति द्वितीयम् । वाताय च त्वान्तरिक्षाय चोन्नयामि इति तृतीयम् । सूर्याय च त्वा दिवे चोन्नयामि इति चतुर्थम् ४
आ होतोर्न चाभिमीलयेत् ५
हुत्वा महदभिवीक्षेत ६ उन्नीतमग्निहोत्रं दशहोत्राभिमृश्य स्रुवं च स्थालीं च सम्मृशति सजूर्देवैः सायंयावभिः सायंयावानो मा देवाः स्वस्ति सम्पारयन्तु इति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति सम्पारयन्तु इति प्रातः ७
यत्रोन्नयेत् तत् सादयेत् प्रतरां वा पशून् मे यच्छ इति ८
प्रादेश-मात्रीं पालाशीँ समिधमादाय समयार्चिर्गार्हपत्यस्याहरति ९
उद्द्रवन् दशहोतारं व्याचष्टे १०
११