१०

ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्तेन परिषिञ्चामि इति प्रातः १
अथैकेषाम् । ऋतसत्याभ्यां त्वा परिषिञ्चामि इति सायम् । सत्यर्ताभ्यां त्वा परिषिञ्चामि इति प्रातः २
एवमेव हुत्वा परिषिञ्चति ३
गार्ह-पत्यात् प्रक्रम्य सन्ततां प्राचीमुदधाराँ स्रावयत्याहवनीयात् यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै नयामि सन्तत्यै त्वा यज्ञस्य इति ४
धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति भूतकृतः स्थापोढं जन्यं भयम् इति ५
व्यन्तान् कृत्वा तेष्वग्निहोत्रमधिश्रयति

इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।

ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु ॥

इति ६
अथैनं तृणेनाभिज्वलयन्नवेक्षते उद्भवः स्थोदहं प्रजया पशुभिरिन्द्रि येण भूयासम् इति ७
यदा समुदन्तं भवत्यम्नरधिश्रितं वाथ स्रुवेणाद्भिः प्रजनयति हरस्ते मा विनैषम् इति ८
अप्रतिषेक्यँ स्यात् तेजस्कामस्य ब्रह्मवर्चसकाम-स्याथाभिचरतस्तितीर्षमाणस्याथो यः कामयेत वीरो म आजायेतेति ९
तथैव तृणेनाभिज्वाल्य त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति १०
श्रपयित्वा कर्षन्निवोदगुद्वासयति घर्मोऽसि रायस्पोषवनिरिहोर्जं दृँ ह इति ११
सुभूतकृतः स्थ प्रत्यूढं जन्यं भयम् इति गार्हपत्येऽङ्गारानपिसृज्य सावित्रेण स्रुवमग्निहोत्रहवणीं चादाय गार्हपत्ये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२
निष्टप्य सम्मृशति अरिष्टो यजमानः पत्नी च इति १३
१०