पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा पुरोधाकामो यो वा गतश्रीः
स्यात् । अपरौ दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्य यो व बुभूषेद् यो
वानुजावरः स्यात् १
पूर्वौ पूर्वं दुह्याज्ज्येष्ठस्य
ज्यैष्ठिनेयस्य । अपरौ पूर्वं दुह्यात् कनिष्ठस्य
कानिष्ठिनेयस्येत्येकेषाम् २
यथाकामी नित्ये दोहनकल्पे ३
न
सम्मृशति ४
दुग्ध्वाहरति ५
अप्रेणाहवनीयं दक्षिणातिक्रम्योपविशति यजमानो
यजमा-नायतने । पत्नी पत्नीलोके ६
तदानीमस्तमित आदित्ये नक्षत्रं दृष्ट्वा
प्रदोषे वा सायमग्निहोत्रं जुहोति ७
व्युष्टायामुषसि वा
प्रातरग्निहोत्रम् । उपोदयमुदिते समयाविषिते
वा । यर्हि वाक् प्रवदेत् तर्हि होतव्यमित्येकेषाम् ८
यदुदिते
जुहोत्यग्निष्टोमं तेनावरुन्द्धे । यन्मध्यन्दिन
उक्थ्यं तेन । यदपराह्णे षोडशिनं तेन । यत् पूर्वरात्रे जुहोति पूर्वं
तेन रात्रिपर्यायमाप्नोति । यन्मध्यरात्रे मध्यमं तेन । यदपररात्रे
जघन्यं तेन रात्रिपर्यायमाप्नोतीति विज्ञायते ९
स न मन्येत
सर्वेष्वेतेषु कालेषु होतव्यमिति । आपदि
हुतमितेय्व प्रतीयात् १०
अग्नीन् परिषिञ्चति ।
गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् ११
९