स्वयं यजमान एधानाहृत्याग्निषु महत इध्मानभ्यादधाति यदग्ने यानि कानि च
इत्येताभिः पञ्चभिः प्रतिमन्त्रम् १
आहवनीये वर्षिष्ठम् २
नित्यो
गार्हपत्यो धार्यते ३
सायं प्रातराहवनीयमुद्धरेयुः ४
अपि वा सायमुद्धृत
एव स्यादा प्रातरग्निहोत्रात् ५
नित्यो गतश्रिय आहवनीयो धार्यते ६
आयुष्कामस्य वा ७
अहरहरन्वाहार्यपचनमाहरेयुर्मन्थेयुर्वा
८
नित्यो वा धार्यते ९
नित्यौ सभ्यावसथ्यौ १०
अग्नीन् परिसमूहति । अग्ने
सम्राट् शुन्धस्व इत्याहवनीयम् । अग्ने वह्ने शुन्धस्व
इत्यन्वाहार्यपचनम् । अग्ने गृहपते शुन्धस्व
इति गार्हपत्यम् ११
एवमेव हुत्वा परिसमूहति १२
अग्नीन् परिस्तृणाति ।
गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् १३
अग्निहोत्रपात्राणि
प्रक्षाल्य द्वन्द्वं प्रयुनक्त्युत्तरेण गार्हपत्यम् ।
खादिरँ स्रुवं
वैकङ्कतीमग्निहोत्रहवणी-मुपवेषमार्यकृतामग्निहोत्रस्थालीमूर्ध्वकपालामचक्रवर्ताम्
१४
अस्तमित आदित्येऽभिधाय दक्षिणतोऽग्निहोत्र्या वत्समुपसृजति १५
अथैनां
प्राचीं वोदीचीं वावर्त्य स्थाल्या दोहनेन च दुहन्ति १६
न शूद्रो
दुह्यादित्येकम् । काममेव न शूद्रो दुह्यादित्यपरम् १७
अग्निहोत्रं त्वेव न शूद्रो दुह्यात् । तद्धि पवित्रं नात्येतीति विज्ञायते
१८
८