अग्निहोत्रं व्याख्यास्यामः १
उद्धराहवनीयम् इत्येव सायं यजमानः
सम्प्रेष्यति । उद्धराहवनीयम् इति प्रातः २
धृष्टिरसि
ब्रह्म यच्छ इत्युपवेषमादाया-ध्वर्युर्ब्रह्मचारी क्षीरहोता वा
गार्हपत्यमभिमन्त्रयते सुगार्हपत्यः इत्येतया ३
अथैनमुद्बोधयति
उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सँ सृजेथामयं च ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥
इति ४
पुरा छायासम्भेदाद् गार्हपत्याज्ज्वलन्तमाहवनीयमुद्धरति वाचा त्वा
होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा
श्रोतेणाग्नीधैतैस्त्वा
पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि
इति ५
उद्ध्रियमाणे यजमानो जपति
भूर्भुवः सुवरोमुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वाँ श्चकार ।
अह्ला यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ॥
इति सायम् ।
रात्रिया यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ।
इति प्रातः ६
आहवनीयायतनेऽग्निं प्रतिष्ठापयति
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै ।
तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगाय ॥ अग्निमग्नौ स्वाहा ॥
इति सायम् । सूर्यमग्नौ स्वाहा इति प्रातः ७
७