०६

इमान् मे मित्रावरुणा गृहानजूगुपतं युवम् ।

अविनष्टानविह्रुतान् पूषैनानभ्यराक्षीदास्माकं पुनरागमात् ॥

इति १
आहवनीये समिध आदधाति अग्नेः समिदसि इति तिस्रः २
आधायोपतिष्ठते मम नाम तव च जातवेदः इत्येताभिश्चतसृभिः ३
प्रोषुष आहुतिं जुहोति मनो ज्योतिर्जुषताम् इत्येतया ४
नार्वाग् दशम्यै जुहुयात् ५
अथ यत्र नवावरार्ध्या रात्रीरुषित्वा सगृहः प्रयायात् तत् सर्व ँ! समवधाय सर्वाण्यन्यानि शकटानि युक्तानि भवन्ति ६
अथाग्निष्ठस्य दक्षिणो युक्तो भवति सव्योऽयुक्तः ७
अथ वास्तोष्पतीयं जुहोति ८
वास्तोष्पते प्रति जानीह्यस्मान् इत्येतामनुद्रुत्योत्तरया जुहोति ९
न हुत आदधाति १० अवक्षाणानि सम्प्रक्षाप्य पृथगरणीष्वग्नीन् समारोपयते यावन्तो नित्या धार्यन्ते अयं ते योनिरृत्वियः इत्येकैकम् ११
अपि वा या ते अग्ने यज्ञिया तनूस्तये-ह्यारोह इत्यात्मन् समारोपयते १२
मथिष्यन् जपति उपावरोह जातवेदः इत्येताम् १३
यद्यनोवाहः स्यात् पूर्वं तं प्रवहेयुरप वोद्धरेयुः १४ यद्धीयेत तन्न त्वेवानुहरेयुइति विज्ञायते न त्वेवानुहरेयुरिति विज्ञायते १५