०५

वाग्यतोऽभिप्रव्रजति

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।

मान्तः स्थुर्नो अरातयः ॥

उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत ।

रायस्पोषेण सँ सृज प्रजया च बहून् कृधि ॥

इति १
सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते २
व्रतचारी प्रवसति ३
ऋतुं प्रत्युपतिष्ठते ४
यद्यनुपस्थिताग्निः प्रवसेत् तत्रैव सन्नुपतिष्ठेत

इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।

तिरो मा सन्तमायुर्मा प्रहासीत् ।

ज्योतिषा वो वैश्वानरेणोपतिष्ठे ॥

इति ५
समिधः कृत्वाग्नीनभ्यैति

विश्वदानीमाभरन्तोऽनातुरेण मनसा ।

अग्ने मा ते प्रतिवेशा रिषाम ॥

नमस्ते अस्तु मीढुषे नमस्त उपसद्वने ।

अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥

इति ६
असकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजते ७
अग्नीन् समाधेहि इत्याह प्रवसथादेत्य ८
भास्वतो विराजक्रमैरुपतिष्ठते यथाग्न्याधेये ९
अजूगुपः इति मन्त्रँ सन्नमति १०