वाग्यतोऽभिप्रव्रजति
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥
उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत ।
रायस्पोषेण सँ सृज प्रजया च बहून् कृधि ॥
इति १
सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते २
व्रतचारी प्रवसति ३
ऋतुं
प्रत्युपतिष्ठते ४
यद्यनुपस्थिताग्निः प्रवसेत् तत्रैव सन्नुपतिष्ठेत
इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा सन्तमायुर्मा प्रहासीत् ।
ज्योतिषा वो वैश्वानरेणोपतिष्ठे ॥
इति ५
समिधः कृत्वाग्नीनभ्यैति
विश्वदानीमाभरन्तोऽनातुरेण मनसा ।
अग्ने मा ते प्रतिवेशा रिषाम ॥
नमस्ते अस्तु मीढुषे नमस्त उपसद्वने ।
अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥
इति ६
असकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजते ७
अग्नीन् समाधेहि इत्याह
प्रवसथादेत्य ८
भास्वतो विराजक्रमैरुपतिष्ठते यथाग्न्याधेये ९
अजूगुपः
इति मन्त्रँ सन्नमति १०
५