भर्तुं वः शकेयम् इत्येके १
भर्तुं वः शकेयम् । श्रद्धा मे मा व्यगात्
इत्येके २
वात्सप्रेणेत्येके ३
माहित्रेण तृचेनेत्येके
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥
न हि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशँ सः ॥
ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् । प्र दाशुषे वार्याणि ॥
इति ४
एवंविहितमेवास्य प्रवसतोऽग्न्युपस्थानं भवति ५
एतावन्नाना यानि सँ
स्पर्श्य कर्माण्यध्वर्युस्तानि कुर्यात् ६
यजमानः काले तां
दिशमभिमुखो मन्त्रान् जपेत् ७
अग्नीन् समाधेहि इत्याह
प्रवसथमेष्यन् ८
भास्वतो विरा-जक्रमैरुपतिष्ठते यथाग्न्याधेये ९
आहवनीये समिधमादधाति मम नाम प्रथमं जातवेदः इत्येतया १०
अन्तराग्नी तिष्ठन् जपति
इमान् मे मित्रावरुणा गृहान् गोपायतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षत्वास्माकं पुनरागमात् ॥ इति ११
४