गोष्ठमुपतिष्ठते ऊर्जा वः पश्याम्यूर्जा मा पश्यत इति प्रतिपद्य मयि वो
रायः श्रयन्ताम् इत्यन्तेन १
वत्समभिमृशतीत्येकेषाम् २
आहवनीयमुपतिष्ठते तत् सवितुर्वरेण्यम् इति
प्रतिपद्य भेत्तारं भङ्गुरावतः इत्यन्तेन ३
गार्हपत्यमुपतिष्ठते अग्ने गृहपते इति
प्रतिपद्य शतँ हिमाः इत्यन्तेन ४
पुत्रस्य नाम गृह्णाति ५
व्याख्यातो जातपुत्रकल्पश्चाजातपुत्रकल्पश्च ६
तत आह अच्छिन्नो
दैव्यस्तन्तुर्मा मनुष्यश्छेदि । दिव्याद्धाम्नो मा छित्सि मा मानुषात्
इति ७
अग्नीनुपसमिध्य ज्योतिषे तन्तवे त्वा इत्यन्तराग्नीं उपविशति ८
एवमेव
सायमग्न्युपस्थानेनोपतिष्ठते ९
प्रातरवनेकेन प्रातः १०
अधिश्रित उन्नीयमाने
वा हस्ताववनेनिजीत या अवनेजनप्रवादा ऋचः ११
अवशिष्टाभिराहवनीयमुपतिष्ठते १२
पुरस्ताद-ग्नीषोमीयाया विहव्यस्य चतस्र उत्तरा ऋचो जपेदाग्नेयस्य च द्वे
याज्यानुवाक्ये १३
व्याहृतीभिरग्न्युपस्थानमेके समामनन्ति १४
३