०२

आयुर्दा अग्नेऽस्यायुर्मे देहि इति प्रतिपद्य चित्रावसो स्वस्ति ते पारमशीय इति सायमुपतिष्ठते । अर्वाग्वसो स्वस्ति ते पारमशीय इति प्रातः प्रातरवनेकेन १
त्रिश्चित्रावसुनोपतिष्ठते त्रिरर्वाग्वसुना २
आहवनीये समिध आदधाति अग्नेः समिदस्यभिशस्त्या मा पाहि इति प्रथमम् । सोमस्य समिदसि परस्पा म एधि इति द्वितीयाम् । यमस्य समिदसि मृत्योर्मा पाहि इति तृतीयाम् । इन्धानास्त्वा शतँ हिमाः इति चतुर्थीमाधायोपतिष्ठते सं त्वमग्ने सूर्यस्य वर्चसागथाः इत्यनुवाकशेषेण ३
मुखं विमृष्टे

वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि ॥

इति ४
गोष्ठमुपतिष्ठते सं पश्यामि प्रजा अहम् इति प्रतिपद्य बह्वीर्मे भूयास्त इत्यन्तेन ५
अन्तराग्नी तिष्ठन् जपतीत्येकेषाम् ६
सँ हितासि विश्वरूपीः इति वत्समभिमृश्य गार्हपत्यमुपतिष्ठते उप त्वाग्ने दिवेदिवे इत्येताभिः षड्भिः ७