०१

अग्न्युपस्थानं व्याख्यास्यामः १
आधानवेलायां पत्नी च यजमानश्च व्रत-चारिणौ भवत आ होमात् २
उन्नीयमाने यजमानोऽनुचङ्क्रम्यत आ होमात् ३
उन्नीयमाने स्थेयमित्येकेषाम् ४
विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि श्रद्धा मयि इति होष्यन्नप उपस्पृशेत् ५ वृष्टिरसि वृश्च मे पाप्मानमृतात सत्यमुपागामप्सु श्रद्धा इति हुत्वा ६
एवमेव सर्वेषु यज्ञक्रतुषु यक्ष्यमाणश्चेष्ट्वा चाप उपस्पृशति ७ उत्तरामाहुतिमनूत्थाय कवातिर्यङ्ङिवाहवनीयमुपतिष्ठते उपप्रयन्तो अध्वरम् इत्येताभिः षड्भिः ८
ममाग्ने वर्चो विहवेष्वस्तु इति चैताभिश्चतसृभिरपरपक्षे ९
अथ पूर्वपक्षे उमा वामिन्द्रा ग्नी आहुवध्यै इत्येता-मपोह्येतराभिरुपस्थाय आन्यं दिवो मातरिश्वा जभार इत्येतयान्तत उपतिष्ठते १०
संवत्सरे संवत्सर आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते ११
अग्न आयूँ षि पवसे इत्येताभिः षड्भिराहवनीयमुपतिष्ठते १२