अग्न्युपस्थानं व्याख्यास्यामः १
आधानवेलायां पत्नी च यजमानश्च व्रत-चारिणौ
भवत आ होमात् २
उन्नीयमाने यजमानोऽनुचङ्क्रम्यत आ होमात् ३
उन्नीयमाने
स्थेयमित्येकेषाम् ४
विद्युदसि विद्य मे पाप्मानमृतात्
सत्यमुपैमि श्रद्धा मयि इति होष्यन्नप उपस्पृशेत् ५
वृष्टिरसि वृश्च मे पाप्मानमृतात सत्यमुपागामप्सु श्रद्धा इति हुत्वा
६
एवमेव सर्वेषु यज्ञक्रतुषु यक्ष्यमाणश्चेष्ट्वा चाप उपस्पृशति ७
उत्तरामाहुतिमनूत्थाय कवातिर्यङ्ङिवाहवनीयमुपतिष्ठते
उपप्रयन्तो अध्वरम् इत्येताभिः षड्भिः ८
ममाग्ने वर्चो
विहवेष्वस्तु इति चैताभिश्चतसृभिरपरपक्षे ९
अथ
पूर्वपक्षे उमा वामिन्द्रा ग्नी आहुवध्यै
इत्येता-मपोह्येतराभिरुपस्थाय
आन्यं दिवो मातरिश्वा जभार इत्येतयान्तत उपतिष्ठते १०
संवत्सरे संवत्सर
आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते ११
अग्न आयूँ षि पवसे
इत्येताभिः षड्भिराहवनीयमुपतिष्ठते १२
१