पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनड्वान् शतमानँ
हिरण्यमिति १
समानमानूयाजेभ्यः २
द्वयोरनूयाजयोर्द्वे
विभक्ती दधाति देवे अग्नौ देवो अग्निः इति ३
व्याख्यातो
विभक्तिलोकः ४
स्वयँ सम्पन्न उत्तमोऽनूयाजः ५
सिद्धमिष्टिः
सन्तिष्ठते ६
आग्निवारुणमेकादशकपालमनुनिर्वपति ७
स
एषोऽग्नीषोमीयस्य स्थानं प्रत्येति ८
सर्वेषां
वानुनिर्वाप्याणाम् ९
सन्तिष्ठते पुनराधेयम् १०
य ऊर्ध्वं
पुनराधेयादग्निमादधीत स एतान् होमान् जुहुयात् लेकः सलेकः
सुलेकः इति ११
त इम आग्न्याधेयिकानां दर्विहोमानाँ स्थानं
प्रतियन्ति १२
यदरण्योः समारूढो नश्येत् पुनराधेयं
कुर्वीतेत्याश्मरथ्यः । अग्न्याधेयमित्यालेखनः १३
यस्योभावनुगतावभि वोदियादभि वास्तमियात् पुनराधेयमेव कुर्वीत १४
२१
इति पञ्चमः प्रश्नः