अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्ने इति १
उपरिष्टाद् येयजामहाद्
दध्यादित्येकम् । पुरस्तादामन्त्रणीयात् पदादित्यपरम् २
यं
कामयेतर्ध्नुयादिति तस्योपरिष्टात् प्रयाजानां
विभक्तीर्दध्यात् पुरस्ताद्वषट्कारात् ३
स्वयँ
सम्पन्न उत्तमः प्रयाजः ४
समानमाज्यभागाभ्याम् ५
बुधन्वानाग्नेय
आज्यभागो भवति अग्निँ स्तोमेन बोधय इति ६
पवमानवान् सौम्यः अग्न
आयूँ षि पवसे इति ७
जुषाणो अग्निः पवमान आज्यस्य हविषो वेतु इति यजति
८
अग्निर्मूर्धा इति सौम्यस्य लोके कुर्यात् प्रजाकामः पशुकामो वा ९
अग्ने
तमद्य इति पङ्क्त्यो याज्या-नुवाक्या भवन्ति । द्वे हविषो द्वे
स्विष्टकृतः १०
पुनरूर्जा ॥ सह रय्या भितः
पुरोडाशमाहुती जुहोति ११
समानमा दक्षिणाकालात् १२
उभयीर्दक्षिणा ददात्याग्न्याधेयिकीः पौनराधेयिकीश्च १३
ता इमाः
पुनराधेयदक्षिणाः १४
२०