अथैतानि पुनराधेयनक्षत्राणि रोहिणी पुनर्वसू अनूराधा इति १
वर्षासु शरदि
वादधीत २
मध्यन्दिन आधेय इति विज्ञायते ३
सर्वान् मध्यन्दिन
आद-धीतेत्येकम् । आहवनीयँ सभ्यावसथ्यावित्यपरम् ४
समानमा गार्हपत्य-स्याधानात् ५
सर्वाभिः
सर्पराज्ञीभिर्गार्हपत्यमादधाति
६
समानमा-हवनीयस्योद्यमात् ७
उपोलवा दर्भा भवन्ति परुक्णाः संवत्सरप्रवाताः
। तेषामिध्ममादीप्याहवनीयमुद्यच्छते ८
यत्त्वा क्रुद्धः परोवप
इत्यन्वाहार्य-पचनमादधाति ९
यत्ते
मन्युपरोप्तस्य इत्याहवनीयम् १०
मनो
ज्योतिर्जुषताम् इत्याहितमाहितमुपतिष्ठते ११
समानमा
तूष्णीमग्निहोत्रात् १२
सप्त ते अग्ने समिधः सप्त जिह्वाः इति
तूष्णीमग्निहोत्रं जुहोति १३
समानमा निर्वपणात् १४
आग्नेयं
पञ्चकपालं निर्वपति १५
स एषोऽष्टाकपालस्य स्थानं प्रत्येति १६
पञ्चदश
सामिधेन्यो भवन्ति सप्तदश वा १७
यत् प्रागुत्तमादनूयाजात् तेनोपाँ शु
प्रचरन्त्यन्यत्र स्विष्टकृतः १८
समानमा प्रयाजेभ्यः १९
चतुर्षु
प्रयाजेषु चतस्रो विभक्तीर्दधाति २०
१९