या ते अग्न उत्सीदतः पावकाप्सु प्रिया तनूस्तया सहान्तरिक्षमाविश ।
वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ।
ततो न इषमूर्जमाकृधि गृहमेधं च वर्धय स्वाहा ॥
या ते अग्न उत्सीदतः सूर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश ।
बृहता साम्ना जागतेन छन्दसा । ततो नो वृष्ट्यावधि स्वाहा ॥
यास्ते अग्ने विभक्तीरिन्द्र ःसूकर आभरत् ।
तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् स्वाहा ॥
यास्ते अग्ने कामदुघा विभक्तीरनुसम्भृताः ।
ताभिर्नः कामान् धुक्ष्वेह प्रजां पुष्टिमथो धनँ स्वाहा ॥
ये ते अग्ने वानस्पत्याः सम्भाराः सम्भृताः सह तेभिर्गच्छ
वनस्पतीन् स्वां योनिं यथायथँ स्वाहा ॥
अगन्नग्निर्यथालोकमसदत् सदने स्वे ।
अवीरहत्यं देवेषूपागां मनसा सह स्वाहा ॥
इति १
पौर्णमास्यां ज्वलतोऽग्नीनुद्वासयति २
संवत्सरमवसृष्टाग्निः
स्यादित्येकम् । अपरिमितमित्यपरम् ३
१८