पुनराधेयं व्याख्यास्यामः १
तस्याग्न्याधेयेन कल्पो व्याख्यातः २
विकारा-ननुक्रमिष्यामः ३
योऽग्न्याधेयेन नर्ध्नोति स
पुनराधेयमाधत्त इति विज्ञायते ४
ज्यान्यां पुत्रमर्त्यायां
यदैवाहिताग्निरङ्गेन विधुरतामियादथादधीतेत्येकेषाम् ५
प्रजाकामः पुनरादधीत पशुकामः पुनराधीतान्नाद्यकामः पुनरादधीत
प्रतिष्ठाकामः पुनरादधीतेति विज्ञायते ६
यावज्जीवं पुनराधेयस्य
कालो नात्येतीत्याश्मरथ्यः । संवत्सरमित्यालेखनः ७
आग्नेयमष्टाकपालं निर्वपेद् वैश्वानरं
द्वादशकपालमग्निमुद्वासयिष्यन् ८
तस्य पुरस्तात् स्विष्टकृत एता
आहुतीर्जुहोति
या ते अग्ने उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश ।
रथन्तरेण साम्ना गायत्रेण छन्दसा स्वाहा ९
१७