अग्ने बलद इति चतुर्दशीं ब्रह्मवर्चसकामस्य १
चित्रं तस्य जनतायां भवति ।
शबलमिव त्वस्यात्मन् जायते २
मिथुनौ गावौ दक्षिणा ३
सिद्धमिष्टिः
सन्तिष्ठते ४
दर्शपूर्णमासावारभमाणश्चतुर्होतारं
मनसानुद्रुत्याहवनीये सग्रहं जुहोति ५
दर्शपूर्णमासावारभते ६
पौर्णमासीं पूर्वम् ७
अमावास्याया-मादधानस्यैतदविकृतम् ८
पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वार-म्भणीयँ
सद्योऽपवृज्य ९
श्वो भूते पौर्णमासेन यजते १०
अथैतान्याहिता-ग्निव्रतानि भवन्ति ११
नानृतं वदेत् १२
नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् १३
सूर्योढमतिथिं
वसत्यै नापरुन्ध्यात् १४
न सायमहुतेऽग्निहोत्रेऽश्नीयात् १५
न
प्रातरहुते १६
न नक्तमन्यदन्नाद्याद् दद्यात् १७
नक्तमन्नं ददन्नदयीत १८
नर्जीषपक्वस्याश्नीयात् १९
क्लिन्नं दारु नादध्यात् २०
अन्तर्नाव्या-पस्तासां
नाश्नीयात् २१
स्वकृत इरिणे नावस्येत् २२
रजतँ हिरण्यं
बर्हिषि न दद्यात् २३
तूष्णीँ हिङ्कृत्य स्त्रियमुपेयात् २४
१६