१६

अग्ने बलद इति चतुर्दशीं ब्रह्मवर्चसकामस्य १
चित्रं तस्य जनतायां भवति । शबलमिव त्वस्यात्मन् जायते २
मिथुनौ गावौ दक्षिणा ३
सिद्धमिष्टिः सन्तिष्ठते ४
दर्शपूर्णमासावारभमाणश्चतुर्होतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ५ दर्शपूर्णमासावारभते ६
पौर्णमासीं पूर्वम् ७ अमावास्याया-मादधानस्यैतदविकृतम् ८ पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वार-म्भणीयँ सद्योऽपवृज्य ९
श्वो भूते पौर्णमासेन यजते १० अथैतान्याहिता-ग्निव्रतानि भवन्ति ११ नानृतं वदेत् १२
नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् १३
सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् १४
न सायमहुतेऽग्निहोत्रेऽश्नीयात् १५
न प्रातरहुते १६
न नक्तमन्यदन्नाद्याद् दद्यात् १७ नक्तमन्नं ददन्नदयीत १८
नर्जीषपक्वस्याश्नीयात् १९ क्लिन्नं दारु नादध्यात् २०
अन्तर्नाव्या-पस्तासां नाश्नीयात् २१
स्वकृत इरिणे नावस्येत् २२
रजतँ हिरण्यं बर्हिषि न दद्यात् २३
तूष्णीँ हिङ्कृत्य स्त्रियमुपेयात् २४
१६