१५

आदित्यँ हुतमनुमन्त्रयते अदित्या अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति १
एवमेव सर्वानादित्याननुमन्त्रयते २
आदित्यस्य हविरुच्छिष्टं चतुर्धाकरण-काले सर्वं ब्रह्मणे परिहरति ३
तं चत्वार आर्षेया ऋत्विजः प्राश्नन्ति ४
तेभ्यः प्राशितवद्भ्यो धेनुं वरं ददाति ५ उपाँ शुदेवता आग्न्याधेयिका इष्टयो भवन्तीत्येकेषाम् ६
सिद्धमिष्टिः सन्तिष्ठते ७
दर्शपूर्णमासावारप्स्यमाणः सारस्वतौ होमौ पुरस्ताज्जुहुयात् पूर्णा पश्चात् ॥ यत्ते देवा अदधुः इति द्वाभ्याम् ८ अन्वारम्भणीयामिष्टिं निर्वपति ९ आग्नावैष्णवमेकादशकपालँ सरस्वत्यै चरुँ सरस्वते द्वादशकपालम् १०
अग्नये भगिने पुरोडाशमष्टाकपालं चतुर्थं निर्वपेद् भगकामः ११
समानमा हविषां प्रदानात् १२
सारस्वतँ हुतमनु-मन्त्रयते सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् इति १३
एवमेव सर्वान् सरस्वतीदेवताननुमन्त्रयते १४
तस्य पुरस्तात् स्विष्टकृतो जयान् जुहोति चित्तं च चित्तिश्च इति द्वादश । प्रजापतिर्जयानिन्द्रा य वृष्णो प्रायच्छत् इति त्रयोदशीं जुहुयात् १५
१५