१४

पुरा संवत्सरात् तनुहवी ँषि निर्वपेत् १
अपि वाग्नये पवमानायाग्नये पावका-याग्नये शुचय आज्याहुतीर्हुत्वा सोमदेवताभ्यो वा निर्वपेत् २
उपरिष्टात् तनुहविर्भ्योऽग्नीषोमीयमेकादशकपालमनुनिर्वपत्यैन्द्रा ग्नमेकादशकपालम-दित्यै घृते चरुम् ३
अग्नीषॐयो ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः ४
समानमा फलीकरणात् ५
फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति ६
सहेतरान् पिनष्टि ७
समानमा कपालोपधानात् ८
ऐन्द्रा ग्नस्य कपालान्युप-धाय प्रथमेन कपालमन्त्रेण चरुस्थालीमुपदधाति ९
ध्रुवोऽसि इति मन्त्रँ सन्नमति । ध्रुवासि इति वा १०
पिष्टानामावृता तण्डुलान् संवपत्युत्पुनाति ११
यजुषाज्यमुत्पूय चरुस्थाल्यामानयति १२
यथाधिकरणं मन्त्रं नमति १३
अधिश्रयणमन्त्रेण चरव्यानावपति १४
स्थाल्यैव चरुमासादयति १५
एष एवात ऊर्ध्वं चरूणां कल्पो भवत्यन्यत्राज्यग्रहणात् १६
सप्तदश सामिधेन्यो भवन्ति १७
समानमा हविषां प्रदानात् १८
१४