अन्यत्रादिष्टदक्षिणाभ्य इत्यपरम् १
यद्यनाढ्योऽग्नीनादधीताप्येकां गां
दक्षिणां दद्यात् २
सिद्धमिष्टिः सन्तिष्ठते ३
सायमग्निहोत्रँ
होष्यन् दशहोतारं मनसा-नुद्रुत्याहवनीये सग्रहं जुहोति ४
द्वादशाहमजस्रेष्वग्निहोत्रं जुहोति ५
व्रत-चारी भवति ६
द्वादश
रात्रीः स्वयं जुहुयादन्यो वा ७
न प्रवसेत् ८
अहतं वासो वसीत ९
स्वयं
त्रयोदशीं जुहुयात् १०
यां प्रथमामग्निहोत्राय गां दुहन्ति
साग्निहोत्रस्य दक्षिणा ११
अग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेत्
भूर्भुवः सुवः इति १२
संवत्सरे पर्यागत एताभिरेव सादयेत् १३
प्रथम एव
संवत्सर इत्याश्मरथ्यः । संवत्सरे संवत्सर इत्यालेखनः १४
द्वादशसु व्युष्टासु तनुहवी ँषि निर्वपति १५
अग्नये पवमानाय
पुरोडाशमष्टाकपालम् । त्रिँ शन्मानँ हिरण्यं दक्षिणा १६
सिद्धमिष्टिः
सन्तिष्ठते १७
ततोऽग्नये पावकायाग्नये शुचये । त्रिँ
शन्मानचत्वारिँ शन्माने हिरण्ये दक्षिणा १८
सिद्धमिष्टिः सन्तिष्ठते १९
काममेव श्वो भूते तनुहवी ँ!
षि निर्वपेत् २०
काममर्धमासे मास्यृतौ संवत्सरे । सद्य इत्येकेषाम् २१
समानतन्त्राणि वाग्नेयेन स्युः २२
विज्ञायते न सोमेन यक्ष्यमाणः २३
१३