१२

आग्नेयस्य तन्त्रं प्रक्रमयति १
समानमा निर्वपणात् २
आग्नेयमष्टाकपालं निर्वपति ३
निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ सभ्यावसथ्ययोर्मध्ये-ऽधिदेवनमुद्धत्यावोक्ष्याक्षान् न्युप्याक्षेषु हिरण्यं निधाय व्यूह्य समूह्य जुहोति निषसाद धृतव्रतः इत्येतया ४
शतं यजमानायाक्षान् प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिँ सन्तः पर्वाणि विशसत इति ५
तद्यजमानः कृतं विजि-त्योत्तिष्ठति ६
गामस्य तदहः सभायां दीव्येयुः ७
तस्याः परूँ षि न हिँ स्युः ८
ताँ सभासद्भ्य उपहरेत् ९
तया यद् गृह्णीयात् तदुभयमन्नँ सँ स्कृत्य ब्राह्मणान् भोजयेत् १०
आवसथे मध्ये परिषदो हिरण्यं निधायाभिजुहोति प्र नूनं ब्रह्मणस्पतिः इत्येतया ११ ततो यजमानोऽग्नीनुपतिष्ठते कल्पेतां द्यावापृथिवी ॥ येऽग्नयः समनसः इति द्वाभ्याम् १२
समानमा दक्षिणाकालात् १३
वर्धमाना दक्षिणा देयेति विज्ञायते १४
अग्नीधेऽग्र उपबर्हणँ सार्वसूत्रं ददाति १५
अजं चाश्वं ब्रह्मणे १६
धेनुँ होत्रे १७
अनड्वाहमध्वर्यवे १८
मिथुनौ गावौ वासो रथमिति सर्वेभ्यः १९
षड् वा द्वादश वा चतुर्विँ शतिर्वाग्न्याधेये दक्षिणा भवन्ति २० सहादिष्टदक्षिणाभिः सञ्चक्षीतेत्येकम् २१
१२