तिरः पवित्रमाज्यं निरुप्योत्पूय स्रुवं च जुहूं च निष्टप्य सम्मृज्य
चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं
जुहोति । सप्त ते अग्ने समिधः सप्त जिह्वाः इत्येतामनुद्रुत्य स्वाहाकारेण
जुहोति १
हुतायां पूर्णाहुतौ वरं ददाति २
एवमेवात ऊर्ध्वं दर्विहोमेषु
निर्वपत्युत्पुनाति निष्टपति सम्मार्ष्ट्य-न्ततः स्वाहाकारं दधाति ३
यान् प्रतिनिगद्य जुहोत्येते दर्विहोमा भवन्ति याँ श्च जुहोतीति
चोदयेत् ४
ततो यजमान आहवनीयमुपतिष्ठते ये ते अग्ने शिवे
तनुवौ विराट् च स्वराट् च इत्यनुवाकशेषेण ५
तत एतामाहुतिम् ये
अग्नयो दिवो ये पृथिव्याः इति ६
भास्वतो विराजक्रमैरुपतिष्ठते अथर्व
पितुं मे गोपाय इत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय इति
गार्हपत्यम् । शँ स्य पशून् मे गोपाय इत्याहवनीयम् ।
सप्रथ सभां मे गोपाय इति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय
इत्यावसथीयम् । पञ्चधाग्नीन् इति च सर्वान् ७
११