१०

आज्येन चौषधीभिश्च शमयित्वाहवनीयात् सभ्यावसथ्यौ यथर्ष्याधानेना-दधाति १ अरणीभ्यां वा मथित्वा २
सभायाँ सभ्यमावसथ आवसथीयम् ३
दक्षिणाग्नौ सभ्यावसथ्ययोरिति विज्ञायते ४
यज्ञायज्ञियं गायेदित्येकम् । सर्वेष्वित्यपरम् ५
ब्रह्माग्न्याधेये सामानि गायेदिति विज्ञायते ६
नाग्न्याधेये सामानि गायेदित्येकेषाम् ७ आग्निपवमानीभिस्तिसृभिस्तिस्र आश्वत्थीः समिध आदधाति अग्न आयूँ षि पवसे इत्येताभिस्तिसृभिः ८
शमी-मय्यस्तिस्रः समिधो घृतान्वक्ता आदधाति समुद्रा दूर्मिः इत्येताभिस्तिसृभिः ९ प्रेद्धो अग्ने दीदिहि पुरो नः इत्यौदुम्बरीम् । विधेम ते परमे जन्मन्नग्ने इति वैकङ्कतीम् । ताँ सवितुर्वरेण्यस्य चित्राम् इति शमीमयीम् १०
सर्वेष्वेकैकाम् ११
प्रातरग्निहोत्रस्यावृता तूष्णीमग्निहोत्रं जुहोति १२ अरण्येऽनुवाक्याभिर्घोरा-भिस्तनूभिर्यजमान आहवनीयमुपतिष्ठते यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति ब्रूयाद्यं द्विष्यात् १३
१०