०९

अर्धोदिते सूर्य आहवनीयमादधाति १
सर्वोदिते ब्रह्मवर्चसकामस्यादध्यात् २ यथर्ष्याधानेनाधाय व्याहृतीभिरादधाति भूर्भुवः सुवः इति ३
ततः सर्परा-ज्ञीभ्यां भूमिर्भूम्ना इत्येतया च चतुर्थ्या च ४ एताभ्यामेवाहितं यजमान उप-तिष्ठते ५
ततो घर्मशिरसा अर्कश्चक्षुः इति ६
एतेनैवाहितं यजमान उपतिष्ठते ७ प्राणं त्वामृत आदधामि इति च द्वाभ्याम् ८
अन्तत आधायोपतिष्ठते आनशे व्यानशे इति ९
निहिते वारवन्तीयश्यैते गायति १० नाहितमग्निमनभि-हुतमुपस्पृशेत् । आज्येन चौषधीभिश्च शमयितव्य इति विज्ञायते ११

या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ

या रथन्तरे या गायत्रे छन्दसीदं ते तामवरुन्धे ।

तस्यै ते स्वाहा ॥

या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ

या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे ।

तस्यै ते स्वाहा ॥

या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये

या बृहति या जागते छन्दसीदं ते तामवरुन्धे ।

तस्यै ते स्वाहा इति १२