०८

ततोऽश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्राचीमनु प्रदिशं प्रेहि विद्वान् इत्येतया । दिवः पृथिव्याः पर्यन्तरिक्षात् इत्येताभिश्चतसृभिः १ जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथास्यदघ्ने २
नाग्निं चादित्यं च व्यवेयात् ३
पूर्वमग्निँ हरति पश्चादन्वेति ४
दक्षिणतो ब्रह्मा रथं वर्तयति रथचक्रं वा बृहस्पते परि दीया रथेन इति ५
एतां वाप्रतिरथस्यर्चं ब्रह्मा जपतीत्येकेषाम् ६
तथा रथं वर्तयति यावच्चक्रं त्रिः परिवर्तते ७
यः सपत्नवान् भ्रातृव्यवान् स्यात् तस्य पुनश्चक्रं त्रिः परिवर्तयेत् ८
समयाध्वे वरं ददाति ९ समयाध्वे हिरण्यं न्यस्याति-क्रामति नाकोऽसि ब्रध्नः सङ्क्रमणः प्रतिष्ठा यजमानस्य इति १०
उत्तरेण सम्भारान् दक्षिणेन पदा प्राञ्चमश्वमाक्रमयति अभ्यस्थात् इति ११
एतस्मिन्नेव पदे प्रदक्षिणमावर्त्योत्तरया प्रत्यञ्चमाक्रमयति १२
पार्श्वत आक्रमयेद्यथा-हितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् १३ यद्यश्वो न स्याद् बलीवर्द एवैतत् कर्म कुर्यात् १४
अजस्य पद आधेय इति विज्ञायते १५
कमण्डलुपद इत्येकेषाम् १६
अश्वमुपसङ्गृह्य पुरस्तात्प्रत्यङ्मुखः प्रह्वस्तिष्ठन् बृहति गीयमाने १७