०७

यथर्ष्याधानेनाधाय व्याहृतीभ्यामादधाति भूर्भुवः इति १
ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च द्वितीयया च २
एताभ्यामेवाहितं यजमान उपतिष्ठते ३ ततो घर्मिशिरसा घर्मः शिरः इति ४
एतेनैवाहितं यजमान उपतिष्ठते ५
तत एताभिरन्तत आदधाति ६
ऋतँ स्तृणामि पुरीषम् ॥ सुगार्हपत्यः इति चैताभ्याम् ७
अहं त्वदस्मि इत्याहितं यजमान उपतिष्ठते ८
ततोऽश्वस्य दक्षिणे कर्णेऽग्नितनूर्यजमानं वाचयति

या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह ॥

या वाजिन्नग्नेः पावकाप्सु प्रिया तनूस्तामावह ॥

या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह ॥

इति ९
गार्हपत्य इध्ममादीप्याहवनीयमुद्यच्छते ओजसे बलाय त्वोद्यच्छे इति १० उद्ध्रियमाणे वामदेव्यं गायति ११
उपरीवाग्निमुद्गृह्णीयादुद्धरन् १२ नास्यदघ्नमतिहरेत् १३
उद्यतमिध्ममुपयतं धारयन्ति १४ अथान्वाहार्यपचनं यतः कुतश्चाहृत्योर्ध्वज्ञुरादधाति १५ अरणीभ्यां वा मथित्वा १६
यथर्ष्या-धानेनाधाय व्याहृत्यादधाति भुवः इति १७ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च तृतीयया च १८
एताभ्यामेवाहितं यजमान उपतिष्ठते १९
ततो घर्मशिरसा वातः प्राणः इति २०
एतेनैवाहितं यजमान उपतिष्ठते २१