ब्राह्मौदनिकस्य भस्मापोदूह्य दशहोत्रारणी समवधायोपतिष्ठत्यश्वेऽग्निं
मन्थति सहाग्नेऽग्निना जायस्व इति १
मथ्यमाने चतुर्होतॄन् यजमानं
वाचयति २
जाते वरं ददाति ३
जातमभिप्राणिति प्रजापतेस्त्वा
प्राणेनाभिप्राणिमि इति ४
अथैनँ
हस्ताभ्यां परिगृह्णाति अजीजनन्नमृतं मर्त्यासः इति ५
ततः
प्राञ्चमुद्धृत्यानुदित आदित्ये रथन्तरे गीयमान आसीनः सम्भारेषु
गार्हपत्यमादधाति ६
भृगूनां त्वा व्रतपते व्रतेनादधामि
इति भार्गवस्यादध्यात् । अङ्गिरसां त्वा व्रतपते व्रतेना-दधामि इति यो
ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते
व्रतेनादधामि इत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा
राज्ञो व्रतपते व्रतेनादधामि इति राज्ञः । इन्द्र स्य त्वेन्द्रि येण
व्रतपते व्रतेनादधामि इति राज-न्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते
व्रतेनादधामि इति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते
व्रतेनादधामि इति रथकारस्य ७
सम्भारेष्वेव
सर्वा-नग्नीनादधाति ८
६