गार्हपत्यायतने कल्माषमजं बध्नाति प्रजा अग्ने संवासय इत्येतया १
वीणातूणवैरेताँ रात्रिं यजमानं जागरयन्ति पुण्यैश्च
नीथैः २
शल्कैस्ताँ रात्रिमग्निमिन्धीत शल्कैरग्निमिन्धानः इत्येतया
३
तस्मिन्नुपव्युषमरणी निष्टपेत् जातवेदो भुवनस्य रेतः इति द्वाभ्याम् ४
अनुगमयत्येतमग्निम् ५
यजमानायारणी प्रयच्छति अग्नी रक्षाँ सि सेधति इति ६
ते यजमानः प्रतीक्षते मही विश्पत्नी सदने ऋतस्य इति ७
आरोहतं दशतम्
इत्येतया प्रतिगृह्योत्तरा-भ्यामभिमन्त्रयते ८
ततो वाचं
यच्छति अनृतात् सत्यमुपैमि इति ९
वाग्यत आस्त आग्नेर्मन्थनात् १०
तत
आत्मन्यग्निं गृह्णाते अध्वर्युर्यजमानश्च मयि गृह्णा-म्यग्रे अग्निम्
इति द्वाभ्याम् ११
अग्न्यायतनान्युद्धन्ति उद्धन्यमानमस्या अमेध्यम्
इति १२
उद्धत्यावोक्षति शं नो देवीरभिष्टये इत्येतया १३
शुष्केषूपवातेषु
सम्भारान् निवपति १४
द्वैधं विभज्यार्धान् पूर्वेष्वर्धानपरयोः १५
अग्नेर्भस्मा-स्यग्नेः पुरीषमसि इति गार्हपत्यायतने सिकता
निवपति १६
एवमन्वाहार्य-पचनायतन एवमाहवनीयायतन एवँ सभ्यावसथ्ययोः १७
एवमनुपूर्वा-ण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते १८
४