०३

अधिवृक्षसूर्य औपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमा-दधाति १
निशायां चर्मणि पाजके वा ब्रह्मौदनं चतुःशरावं तूष्णीं निर्वपति २
अपि वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि इति प्रथमम् ३ ब्रह्मणेऽपानाय इति द्वितीयम् ४
ब्रह्मणे व्यानाय इति तृतीयम् ५
ब्रह्मणे इति चतुर्थम् । निरुप्य क्षीरे श्रपयति ६ चतुर्षु वोदपात्रेषु ७
न निर्णेनोक्ति नावसिञ्चतीत्येकेषाम् ८ जीवतण्डुलमिव श्रपयित्वोद्धृत्य जुहोति प्र वेधसे कवये इति ९ अथैनं चतुर्धा व्युद्धृत्य सर्पिषोपसिच्यानभ्युच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य उपहरति १०
तेभ्यः प्राशि-तवद्भ्यः समानं वरं ददाति ११
ब्रह्मौदनशेष आज्यमानीय चित्रियस्याश्वत्थस्य समिधस्तिस्र आद्रा रःसपलाशाः स्तिभिकवतीः प्रादेशमात्रीर्ब्रह्मौदने विवृत्या-दधाति १२
समिधाग्निं दुवस्यत इति गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य १३
स एतद् व्रतं चरेत् १४ आग्न्याधेयान्न माँ समश्नीयान्न स्त्रियमुपेयात् १५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः १६
नैषोऽग्निरनुगच्छेत् १७
न प्रयायात् १८
यद्यनु वा गच्छेत् प्रयायादेवमेव ब्रह्मौदनं पक्त्वैवँ समिध आधाय भरणशेषँ समाप्याग्नीनादधीत १९
यद्येनँ संवत्सरे नोपनमेदेवमेव कुर्यात् २०
यस्तँ श्वोऽग्निमाधास्यन् स्यात् स एताँ रात्रिं व्रतं चरति २१
न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात् २२
अध्वर्युरेव व्रतं चरेदित्येकम् । सर्व इत्यपरम् २३