वसन्ते ब्राह्मण आदधीत १
ग्रीष्मे हेमन्ते वा राजन्यः २
शरदि वैश्यः ३
वर्षासु रथकारः ४
शिशिरः सार्ववर्णिकः ५
अथ यदि सोमेन यक्ष्यमाणः
स्यान्नर्तून् सूर्क्षेन्न नक्षत्रम् । यस्मिन्नेव कस्मिँ श्चिदृतावादधीत ६
अमावास्यायां वैव पौर्णमास्यामादधीत ७
या पूर्वाभ्यां फल्गुनीभ्यां
पौर्णमासी स्यान्न तस्यामादधीत ८
विद्यते चतुर्थस्य
वर्णस्याग्न्याधेयमित्येकम् । न विद्यत इत्यपरम् ९
न
जीवपितुरग्न्याधेयं विद्यत इत्येकम् । विद्यत इत्यपरम् १०
उदवसायाग्नीनादधीत शालीनः । न यायावर आद्रि येत ११
प्राचीनप्रवणं
देवयजनमध्यवस्यति अपेत वीत इति १२
तस्मिन्नुदीचीँ शालां
मीत्वाग्रेण मध्यमं वँ शं गार्हपत्यायतनं करोति १३
अग्रेण
गार्हपत्यायतनमाहवनीयाय १४
अष्टासु प्रक्रमेषु
ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः १५
चतुर्वि ँशत्यामाधेय इति विज्ञायते १६
अपरिमित इत्येकेषाम् १७
चक्षुर्निमित इत्येकेषाम् १८
दक्षिणतः पुरस्ताद्
वितृतीयदेशे नेदीयसि गार्हपत्यायतनाद्
दक्षिणाग्नेरायतनं करोति १९
अग्रेणाहवनीयायतनँ सभ्यं मिन्वति २०
अग्रेण
सभ्यमावसथम् २१
ततो यजमानः केशश्मश्रु वापयते २२
क्षौमे वसानौ
जायापती अग्निमादधीयाताम् २३
ते दक्षिणाकालेऽध्वर्यवे दत्तः
२४
पुरस्ताद् ब्राह्मौदनिकात् परिदधीयातामित्येकम् । पुरस्तात्
सम्भारनिवपनादित्यपरम् २५
यस्मिन्
नक्षत्रेऽग्निमाधास्यमानः
स्यात् तस्य पुरस्तात् संवत्सरे द्वादशाहे चतुरहे त्र्यहे
द्व्यहे वैकाहे वा २६
२