अग्नीनाधास्यमानो योऽश्वत्थः शमीगर्भो भूमिं मूलेनास्पृष्टस्तस्यारणी
आहरेत् । अनास्पृष्ट इत्येकेषाम् १
यो अश्वत्थः शमीगर्भः
इत्येतया २
उत्तरया वा ३
ब्राह्मणव्याख्याताः सम्भाराः सप्त
पार्थिवाः सप्त वानस्पत्याः ४
तानाहरति वैश्वानरस्य रूपं पृथिव्यां
परिस्रसा इत्येतैर्मन्त्रैर्यथारूपम् ५
यं त्वा समभरं जातवेदः इत्येतया
सम्भृतँ सम्भृतं यजमानोऽभिमृशति ६
कृत्तिकासु ब्राह्मण आदधीत यः
कामयेत मुख्यो ब्रह्मवर्चसी स्यामिति ७
रोहिण्यामादधीत यः कामयेत
सर्वान् रोहान् रोहयेयमिति ८
मृगशीर्ष आदधीत यः कामयेत श्रीमान् स्यामिति ९
यः पुरा भद्र ःसन् पापीयान् स्यात् स पुनर्वस्वोरादधीत १०
यः कामयेत
दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योरादधीत ११
यः
कामयेत भगी स्यामिति स उत्तरयोरादधीत १२
विपरीतमेके समामनन्ति १३
हस्त आदधीत यः कामयेत प्र मे दीयेतेति १४
यो भ्रातृव्यवान् स्यात् स
चित्रायामादधीत १५
चित्रायाँ राजन्य आदधीतेत्येकेषाम् १६
विशाखयोरादधीत प्रजाकामोऽनुराधेष्वृद्धिकामः प्रोष्ठपदेषु
प्रतिष्ठाकाम इति विज्ञायते १७
सूर्यनक्षत्र एव
स्यादित्येकेषाम् १८
१