अन्तर्वेद्यासीनोऽतीमोक्षान् जपति ये देवा यज्ञहनः इत्येतान् १
सर्वं
विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा वि मुञ्चतु इति २
अत्रैके यजमानभागस्य प्राशनँ समामनन्ति ३
सान्नाय्ययोरपि ब्राह्मणो
यजमानः प्राश्नीयात् ।
इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ स्वस्तये ।
आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।
रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥
इति शृतस्य । दधिक्राव्णो अकारिषम् इति दध्नः ४
ततो व्रतं विसृजते ५
दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते
व्रतमचारिषम् इति ६
स एष ब्राह्मणस्यैव
स्यान्नेतरयोर्वर्णयोः ७
वायो व्रतपते
इति वायुमुपतिष्ठते । आदित्य व्रतपते इत्यादित्यम् । व्रतानां व्रतपते
इत्याहवनीयम् ८
यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव इति ९
प्राङुत्क्रम्य ब्रूयात् गोमाँ अग्ने इत्येताम् १०
यथान्ववेतमुपनिष्क्रामन्नाह ब्राह्मणाँ
स्तर्पयितवै इति ११
तत् खल्विदं याजमानं न प्रवसतो
विद्यत इत्याश्मरथ्यः । अथालेखनः । एवं विहितमेवास्य प्रवसतो याजमानं
भवति । एतावन्नाना । यानि सँ स्पृश्य कर्माण्यध्वर्युस्तानि कुर्यात्
१२
यजमानः काले तां दिशमभिमुखो मन्त्रान् जपेत् । प्राङ्मुखस्त्वेव
विष्णुक्रमान् गोमतीमिति ब्रूयाद् गोमतीमिति ब्रूयात् १३
२२
इति चतुर्थः प्रश्नः