२१

उद्यन्नद्य मित्रमहः सपत्नान् मे अनीनशः ।

दिवैनान् विद्युता जहि निम्रोचन्नधरान् कृधि ॥

उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा ।

दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥

उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।

हृद्रो गं मम सूर्य हरिमाणं च नाशय ॥

शुकेषु मे हरिमाणँ रोपणाकासु दध्मसि ।

अथो हारिद्र वेषु मे हरिमाणं निदध्मसि ॥

उदगादयमादित्यो विश्वेन सहसा सह ।

द्विषन्तं मम रन्धयन् मो अहं द्विषतो रधम् ॥

यो नः शपादशपतो यश्च नः शपतः शपात् ।

उषाश्च तस्मै निम्रुक् च सर्वं पापँ समूहताम् ॥

इति च १
प्रदक्षिणमावर्तते ऐन्द्री मावृतमन्वावर्ते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीः इति २
यद्यभिचरेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणं निवेष्टयामि इति दक्षिणस्य पदः पार्ष्ण्या निवेष्टयेत् ३
अन्वाहार्यपचनमभिमन्त्रयते

अग्ने वह्ने स्वदितं नस्तनये पितुं पच ।

शं तोकाय तनुवे स्योनः ॥

इति ४
तेजोऽसि इत्यभिपर्यावृत्याहवनीयमभिमन्त्रयते समहं प्रजया सं मया प्रजा इति ५
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्युपसमिध्य वसुमान् यज्ञो वसीयान् भूयासम् इत्युपस्थाय गार्हपत्यमभिमन्त्रयते अग्न आयूँ षि पवसे इति प्रतिपद्य शतँ हिमाः इत्यन्तेन ६
पुत्रस्य नाम गृह्णाति तामाशिषमा शासे तन्तवे ज्योतिष्मतीम् इत्यजातपुत्रः । तामाशिषमा शासेऽमुष्मै ज्योतिष्मतीम् इति जातपुत्रः ७
अथ यदि बहुपुत्रः स्यात् सर्वेषां नामानि गृह्णीयात् ज्योतिषे तन्तवे त्वा इति ८
२१