२०

पुरा पूर्णपात्राज्जपति यज्ञ शं च म उप च यज्ञ शिवो मे सन्तिष्ठस्व स्विष्टो मे सन्तिष्ठस्वारिष्टो मे सन्तिष्ठस्व ॥ यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे सन्तिष्ठस्व स्योनेन मे सन्तिष्ठस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन मे सन्तिष्ठस्व यज्ञस्यर्द्धिमनु सन्तिष्ठस्व । उप ते यज्ञ नम उप ते नम उप ते नमः इति १
अन्तर्वेदि प्रणीता आसन्ना अभिमृशति को वोऽयोक्षीत् स वो विमुञ्चतु इति २ अथासूपरिष्टात् सन्ततामुदकधाराँ स्रावयति सदसि सन्मे भूयाः इति ३
अथैनां प्रतिदिशं व्युत्सिञ्चति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्येतैर्यथारूपम् ४
अवशिष्टा अन्तर्वेदि निनयति

समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।

अच्छिद्र ःप्रजया भूयासं मा परासेचि मत्पयः

इति ५
मुखं विमृष्टे

यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु ।

तेन मे वाजिनीवती मुखमङ्धि सरस्वति ॥

इति ६
दक्षिणे वेद्यन्ते दक्षिणेन पदा प्राङ् विष्णुक्रमान् क्रामति विष्णोः क्रमोऽसि इत्येतैस्त्रिभिर्मन्त्रैः । तिष्ठँ श्चतुर्थं जपति ७
तत आदित्यमुपतिष्ठते अगन्म सुवः सुवरगन्म इति प्रतिपद्य सं ज्योतिषाभूवम् इत्यन्तेन ८
२०