१९

अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसि वित्तिरसि विदेय इत्येतैर्मन्त्रैः १
विदेय इत्यतोऽनन्तरं यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात् २
पत्नीसंयाजानामिष्टमिष्टमनुमन्त्रयते । सोमस्याहं देवयज्यया इति प्रथमम् । त्वष्टुरहं देवयज्यया इति द्वितीयम् ३
राकाया अहं देवयज्यया प्रजावान् भूयासम् इति राकाम् । सिनीवाल्या अहं देवयज्यया पशुमान् भूयासम् इति सिनीवालीम् । कुह्वा अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति कुहूम् । एता एव तिस्रः पत्न्यनुमन्त्रयते मन्त्राँ श्च सन्नमयति ४
उत्तमौ पत्नीसंया-जाविष्टावनुमन्त्रयते देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्र भूयासम् इति ५
आज्येडामनुमन्त्रयते

इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः ।

वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी ॥

इति ६
या सरस्वती विशोभगीना तस्यास्ते भक्तिवानो भूयास्म इति फलीकरणहोमे हुते मुखं विमृष्टे ७
हुते समिष्टयजुषि यजमानभागं प्राश्नाति सं यज्ञपतिराशिषा इति ८
यदि यजमानः प्रवसेत् प्रजापतेर्विभान्नाम लोकस्तस्मिँ स्त्वा दधामि सह यजमानेन इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् ९
१९