१८

प्रस्तरमज्यमानमभिमन्त्रयते

समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः ।

समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥

इति १
यत्राभिजानाति अग्निरिदँ हविरजुषत इति तन्निगदान्निगदां देवता-मनुमन्त्रयते अग्नेरहमुज्जितिमनूज्जेषम् इत्येतैर्मन्त्रैर्यथादेवतम् २
यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् एमा अग्मन्नाशिषो दोहकामाः इति ३
पुरस्तादपात्तं तृणमनुप्रह्वियमाणमनुमन्त्रयते

दिवः खीलोऽवततः पृथिव्या अध्युत्थितः ।

तेना सहस्रकाण्डेन द्विषन्तँ शोचयामसि ।

द्विषन्मे बहु शोचत्वोषधे मो अहँ शुचम् ॥

इति ४
परिधिषु प्रह्वियमाणेष्वाहवनीयमभिमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन् इति ५
शंयुवाकमभिमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति ६
सँ स्रावभागानिष्टाननुमन्त्रयते इष्टो यज्ञो भृगुभि-र्द्र विणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरहोषुः । तस्य मेष्टस्य वीतस्य द्र विणेहागमः । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगम्यात् इति । यत् कामयते तस्य नाम गृह्णाति ७
१८