अनूयाजसमिधमाधीयमानामभिमन्त्रयते एषा ते अग्ने समित् तया वर्धस्व चा च
प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताम् । वर्धिषीमहि च
वयमा च प्यासिषीमहि इति १
आहितायामाहवनीयम्
यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् ।
प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत ॥
अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः ।
इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन ॥
यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् ।
सर्वा ँस्तानग्ने सन्दह याँ श्चाहं द्वेष्मि ये च माम् ॥
इति २
इध्मसन्नहनँ हुतमनुमन्त्रयते
वेदिर्बर्हिः श्रितँ हविरिध्मः परिधयः स्रुचः ।
आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः ।
सं मे सन्नतयो नमन्तामिध्मसन्नहने हुते ॥
इति ३
अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्
भूयासम् इत्येतैः प्रतिमन्त्रम् ४
स्रुचौ व्यूह्यमाने
वाजवतीभ्यामभिमन्त्रयते वाजस्य मा प्रसवेन इति
द्वाभ्याम् ५
परिधीनज्यमानानभिमन्त्रयते वसून् देवान् यज्ञेनापिप्रेम्
। रुद्रा न् देवान् यज्ञेनापिप्रेम् । आदित्यान् देवान् यज्ञेनापिप्रेम्
इति ६
१७