१६

व्याख्याता मार्जनी १
बर्हिषदं पुरोडाशमभिमृशति ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसत् । दिशां कॢप्तिरसि । दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । कॢप्तिरसि कल्पतां मे ॥

आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।

इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥

भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व । द्विपात् पाहि चतुष्पादव । दिवो वृष्टिमेरय ॥

ब्राह्मणानामिदँ हविः सोम्यानाँ सोमपीथिनाम् ।

निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्ति ॥

इति २
अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति

इयँ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः ।

स दाधार पृविई!मन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् ॥

इति । प्रजापतेर्भागोऽसि इति चानुवाकशेषेण ३
एतेनैव ब्रह्माभिमृशति ४
१६