इडामाह्वियमाणामभिमन्त्रयते सुरूपवर्षवर्ण एहि इति प्रतिपद्य उपहूत उपहवं
तेऽशीय इत्यन्तेन १
उपाँ शूपहवे सप्त देवगवीर्जपति भूयस्येहि
श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत
एहि इति २
उच्चैरुपहवे सप्त मनुष्यगवीः चिदसि मनासि वस्वी रन्ती रमतिः
सूनुः सूनरा देवीर्देवैरभि मा निवर्तध्वम् । स्योनाः स्योनेन
घृतेन मा समुक्षत ।
न म इदमुपदम्भिषगृषिर्ब्रह्मा यद्ददे समुद्रा दुदचन्निव स्रुचा ।
वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् ॥
इति च ३
यर्हि होतेडामुपह्वयेत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा
ध्यायेत् वायुरिडाया वत्सः सा मे वायुना वत्सेन श्रद्धां तपः
स्वर्गं लोकं धुक्ष्व इति ४
उपहूयमानायां जपति सा मे सत्याशीः
इति प्रतिपद्य जुष्टिं ते गमेयम् इत्यन्तेन ५
उपहूतामनुमन्त्रयते इडाया
अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति ६
भक्षायाह्वियमाणामभिमन्त्रयते
इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना ।
सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगात् ॥
इति ७
१५