१५

इडामाह्वियमाणामभिमन्त्रयते सुरूपवर्षवर्ण एहि इति प्रतिपद्य उपहूत उपहवं तेऽशीय इत्यन्तेन १
उपाँ शूपहवे सप्त देवगवीर्जपति भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इति २
उच्चैरुपहवे सप्त मनुष्यगवीः चिदसि मनासि वस्वी रन्ती रमतिः सूनुः सूनरा देवीर्देवैरभि मा निवर्तध्वम् । स्योनाः स्योनेन घृतेन मा समुक्षत ।

न म इदमुपदम्भिषगृषिर्ब्रह्मा यद्ददे समुद्रा दुदचन्निव स्रुचा ।

वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् ॥

इति च ३
यर्हि होतेडामुपह्वयेत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायुरिडाया वत्सः सा मे वायुना वत्सेन श्रद्धां तपः स्वर्गं लोकं धुक्ष्व इति ४
उपहूयमानायां जपति सा मे सत्याशीः इति प्रतिपद्य जुष्टिं ते गमेयम् इत्यन्तेन ५
उपहूतामनुमन्त्रयते इडाया अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति ६ भक्षायाह्वियमाणामभिमन्त्रयते

इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना ।

सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगात् ॥

इति ७
१५