सोमेन यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इति
सौम्यम् १
समस्तानुमन्त्रणमेके समामनन्ति अग्नीषोमयोरहं
देवयज्यया चक्षुष्मान् भूयासम् इति २
आग्नेयस्य पुरोडाशस्य
हविराहुतिमनुमन्त्रयते अग्नेरहं देव-यज्ययान्नादो भूयासम् इति ३
दब्धिरस्यदब्धो भूयासममुं दभेयम् इत्युपाँ शु-याजस्य । यं
द्वेष्टि तस्य नाम गृह्णाति ४
अग्नीषोमयोरहं देवयज्यया वृत्रहा
भूयासम् इत्यग्नीषोमीयस्य ५
इन्द्रा ग्नियोरहं देवयज्ययेन्द्रि
याव्यन्नादो भूयासम् इत्यैन्द्रा ग्नस्य ६
इन्द्र स्याहं देवयज्ययेन्द्रि
यावी भूयासम् इति सान्नाय्ययोः ७
महेन्द्र स्याहं देवयज्यया जेमानं
महिमानं गमेयम् इति यदि महेन्द्र याजी भवति ८
अग्नेः
स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन
प्रतिष्ठां गमेयम् इति स्विष्टकृतः । अग्निर्मा
दुरिष्टात् पातु इति च ९
इन्द्र स्य वैमृधस्याहं
देवय-ज्ययासपत्नो भूयासम् इति वैमृधस्य १०
१४