१३

प्रवरयोः प्रव्रियमाणयोर्जपति देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टँ स्वं दत्तँ स्वं पूर्त ँस्वँ श्रान्तँ स्वँ हुतम् । तस्य मेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुः । य एवास्मि स सन् यजे यस्यास्मि न तमन्तरेमि इति १ प्रयाजानामिष्टमिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि इत्येतैः प्रतिमन्त्रम् २

एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

द्वौ मम द्वे तस्य योऽस्मान् द्वेव्ष्टि यं च वयं द्विष्मः ॥

त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

पञ्च मम न तस्य किञ्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

इति च ३
आज्यभागाविष्टावनुमन्त्रयते अग्निना यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इत्याग्नेयम् ४
१३