इदमिन्द्रि यममृतं वीर्यमनेनेन्द्रा य पशवोऽचिकित्सन् ।
तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयँ शृतं मयि श्रयताम् ॥
इति शृतम् १
यत् पृथिवीमचरत्तत् प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः ।
इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्र म् ॥
दधि मां धिनोतु ॥
इति दधि २
सर्वाणि समस्तान्यभिमृशति ममाग्ने वर्चो विहवेष्वस्तु
इत्येतेनानुवाकेन ।
अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः ।
तेन लोकान् सूर्यवतो जयेमेन्द्र स्य सख्यममृतत्वमश्याम् ॥
इति च ३
सामिधेनीरनूच्यमाना अभिमन्त्रयते अङ्गिरसो मास्य यज्ञस्य
प्रातरनुवाकैरवन्तु इति ४
यां यामाशिषं कामयते
तामाशास्ते ५
यत्राभिजानाति समिद्धो अग्न आहुतः इति
तदाहवनीयमभिमन्त्रयते
समिद्धो अग्निराहुत स्वाहाकृतः पिपर्तु नः ।
स्वगा देवेभ्य इदं नमः ॥
इति ६
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते इति ७
स्रुवाघारमाघार्यमाणमभिमन्त्रयते मनोऽसि
प्राजापत्यम् इति ८
वागस्यैन्द्री सपत्नक्षयणी इति स्रुच्यम् ९
१२