११

स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके ।

दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥

अयँ स्रुवो अभिजिहर्ति होमान् शतक्षरश्छन्दसानुष्टुभेन ।

सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन ॥

इति स्रुवम् १

इयँ स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः ।

मारुतेन शर्मणा दैव्येन ॥

इत्याज्यस्थालीम् २
पुरोडाशावज्यमानावभिमन्त्रयते

तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन ॥

तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण ॥

तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः ॥

इति ३
अन्तर्वेदि हवीँ ष्यासन्नान्यभिमृशति

यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।

शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥

इत्याग्नेयं पुरोडाशम् ।

प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।

शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥

इत्यग्नीषोमीयम् ।

यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् ।

अप तमिन्द्रा ग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ॥

इत्यैन्द्रा ग्नम् ४
११