१०

स्रुचः साद्यमाना अभिमन्त्रयते

आरोह पथो जुहु देवयानान् यत्रर्षयः प्रथमजा ये पुराणाः ।

हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः ॥

जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा ।

अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दै-व्येन ॥

इति जुहूम् १

अवाहं बाध उपभृता सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।

दोहै यज्ञँ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः ॥

सुभृदस्युपभृद् घृताची त्रैष्टुभेन छन्दसा विश्ववेदः ।

अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रे ण शर्मणा दै-व्येन ॥

इत्युपभृतम् २

यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने ।

इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥

ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः ।

अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ॥

इति ध्रुवाम् ३
१०