०९

परिधीन् परिधीयमानानभिमन्त्रयते ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासम् इत्येतैः प्रतिमन्त्रम् ।

अस्मिन् यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन् दधामि ।

धर्ता धरुणो धरीयानग्निर्द्वेषाँ सि निरितो नुदातै ॥

इति च सर्वान् १
आहवनीयमभिमन्त्रयते

युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।

इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥

यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो ।

तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निरृत्या उपस्थे ॥

तेजिष्ठा ते तपना या च रोचना प्रत्योपन्तीस्तन्वो यास्ते अग्ने ।

ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन् यज्ञहनः पिशाचाः ॥

इति २
विधृती निधीयमाने अभिमन्त्रयते

विच्छिनद्मि विधृतीभ्याँ सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।

विशो यन्त्राभ्यां विधमाम्येनानहँ स्वानामुत्तमोऽसानि देवाः ॥

विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् ।

सीदन्ती देवी सुकृतस्य लोके प्रजामस्मभ्यं द्र विणं च धत्तम् ॥

धृती स्थो विधृती स्वधृती प्राणान् मयि धारयतं प्रजां मयि धारयतं पशून् मयि धारयतम् इति ३
प्रस्तरँ साद्यमानमभिमन्त्रयते

अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् ।

स दाधार समिधो विश्वरूपास्तस्मिन् स्रुचो अध्यासादयामि ॥

इति ४